|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.120. अध्यायः 120
Mahabharata - Bhishma Parva - Chapter Topics
कुरुपाण्डवैरन्यै राजभिश्च भीष्माभिवादनम् ॥ 1 ॥ अर्जुनेन भीष्माय बाणमयोपधानसमर्पणम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text
धृतराष्ट्र उवाच। 6-120-0x(4240)(44471)
कथमासंस्तदा योधा हीना भीष्मेण सञ्जय ।
बलिना देवकल्पेन कौमारब्रह्मचारिणा ॥ 6-120-1(44472)
तदैव निहतान्मन्ये कुरूनन्यांश्च पाण्डवैः ।
न प्राहरद्यदा भीष्मो घृणित्वाद्द्रुपदात्मजम् ॥ 6-120-2(44473)
ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति ।
अद्यैव निहतं श्रुत्वा पितरं मम दुर्मतेः ॥ 6-120-3(44474)
अश्मसारमयं नूनं हृदयं मम सञ्जय ।
श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते ॥ 6-120-4(44475)
यदन्यन्निहतेनाजौ भीष्मेण जयमिच्छता ।
चेष्टितं कुरुसिंहेन तन्मे कथय सुव्रत ॥ 6-120-5(44476)
पुनःपुनर्न मृष्यामि हतं देवव्रतं रणे।
न हतो जामदग्न्येन दिव्यैरस्त्रैश्च यः पुरा ॥ 6-120-6(44477)
स हतो द्रौपदेयेन पाञ्चाल्येन शिखण्डिना । 6-120-7(44478)
सञ्जय उवाच।
सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन् ॥ 6-120-7x(4241)
पाञ्चालान्हर्षयंश्चैव भीष्मः कुरुपितामहः ।
स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा ॥ 6-120-8(44479)
भीष्मो रथात्प्रपतितः संछिन्नो बहुभिः शरैः ।
हाहेति तुमुलः शब्दो भूतानां समपद्यत ॥ 6-120-9(44480)
सीमावृक्षे निपतिते कुरूणां समितिंजये ।
सेनयोरुभयो राजन्क्षत्रियान्भयमाविशत् ॥ 6-120-10(44481)
भीष्मं शान्तनवं दृष्ट्वा विशीर्णकवचध्वजम् ।
कुरवः पर्यवर्तन्त पाण्डवाश्च विशांपते ॥ 6-120-11(44482)
खं तमःसंवृतमभूदासीद्भानुर्गतप्रभः ।
ररास पृथिवी चैव भीष्मे शान्तनवे हते ॥ 6-120-12(44483)
अयं ब्रह्मविदां श्रेष्ठो गतिर्ब्रह्मविदां सदा।
इत्यभाषन्त भूतानि शयानं पुरुषर्षभम् ॥ 6-120-13(44484)
अयं पितरमाज्ञाय कामार्तं शन्तनुं पुरा ।
ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः ॥ 6-120-14(44485)
इति स्म शरतल्पस्थं भरतानां पितामहम् ।
ऋषयस्त्वभ्यभाषन्त सहिताः सिद्धचारणैः ॥ 6-120-15(44486)
हते शान्तनवे भीष्मे भरतानां पितामहे ।
न किंचित्प्रत्यपद्यन्त पुत्रास्तव हि मारिष ॥ 6-120-16(44487)
विषण्णवदनाश्चासन्हतश्रीकाश्च भारत ।
अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः ॥ 6-120-17(44488)
पाण्डवाश्च जयं लब्ध्वा संग्रामशिरसि स्थिताः ।
सर्वे दध्युर्महाशङ्खान्हेमजालपरिष्कृतान् ॥ 6-120-18(44489)
हर्षात्तूर्यसहस्रेषु वाद्यमानेषु चानघ ।
अपश्याम महाराज भीमसेनं महाबलम् ॥ 6-120-19(44490)
विक्रीडमानं कौन्तेयं हर्षेण महता युतम्।
निहत्य तरसा शत्रुं महाबलसमन्वितम् ॥ 6-120-20(44491)
संमोहश्चापि तुमुलः कुरूणामभवत्ततः ।
कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः ॥ 6-120-21(44492)
तथा निपातिते भीष्मे कौरवाणां पितामहे ।
हाहाभूतमभूत्सर्वं निर्मर्यादमवर्तत ॥ 6-120-22(44493)
दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव।
उत्तमं जवमास्थाय द्रोणानीकभुपाद्रवत् ॥ 6-120-23(44494)
भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः।
प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिहर्षयन् ॥ 6-120-24(44495)
तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन्।
दुःशासनं महाराज किमयं वक्ष्यतीति च ॥ 6-120-25(44496)
ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः ।
द्रोणस्तदाऽप्रियं श्रुत्वा मुमोह भरतर्षभ ॥ 6-120-26(44497)
स संज्ञामुपलभ्याशु भारद्वाजः प्रतापवान् ।
निवारयामास तदा स्वान्यनीकानि मारिष ॥ 6-120-27(44498)
विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान्।
रथैः शीघ्राश्वसंयुक्तैः समन्तात्पर्यवारयन् ॥ 6-120-28(44499)
निवृत्तेषु च सैन्येषु पारम्पर्येण सर्वशः ।
निर्मुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः ॥ 6-120-29(44500)
व्युपरम्य ततो युद्धाद्योधाः शतसहस्रशः ।
उपतस्थुर्महात्मानं प्रजापतिमिवामराः ॥ 6-120-30(44501)
ते तु भीष्मं समासाद्य शयानं भरतर्षभम् ।
अभिवाद्यावतिष्ठन्त पाण्डवाः कुरुभिः सह ॥ 6-120-31(44502)
अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान् ।
अभ्यभाषत धर्मात्मा भीष्मः शान्तनवस्तदा ॥ 6-120-32(44503)
स्वागतं वो महाभागाः स्वागतं वो महारथाः ।
तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः ॥ 6-120-33(44504)
अभिनन्द्य स तानेवं शिरसा लम्बताऽब्रवीत् ।
`परपार्श्वे तव सुतान्स्थितानुद्वीक्ष्य भारत।'
शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम् ॥ 6-120-34(44505)
ततो नृपाः समाजह्रुस्तनूनि च मृदूनि च ।
उपधानानि मुख्यानि नैच्छत्तानि पितामहः ॥ 6-120-35(44506)
अथाब्रवीन्नरव्याघ्रः प्रसहन्निव तान्नृपान् ।
नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः ॥ 6-120-36(44507)
ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम् ।
धनञ्जयं दीर्घबाहुं सर्वलोकमहारथम् ॥ 6-120-37(44508)
धनञ्जय महाबाहो शिरो मे तात लम्बते।
दीयतामुपधानं वै यद्युक्तमिह मन्यसे ॥ 6-120-38(44509)
सञ्जय उवाच। 6-120-39x(4242)
समारोप्य महच्चापमभिवाद्य पितामहम्।
नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥ 6-120-39(44510)
आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर।
प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह ॥ 6-120-40(44511)
तमब्रवीच्छान्तनवः शिरो मे तात लम्बते । 6-120-41b`दीयतामुपधानं मे यद्युक्तमिह मन्यसे'
उपधानं कुरुश्रेष्ठ उपधेहि ममार्जुन ॥ 6-120-41(44512)
वीरशय्यानुरूपं वै शीघ्रं वीर प्रयच्छ मे ।
त्वं हि पार्थ समर्थो वै श्रेष्ठः सर्वधनुष्मताम् ॥ 6-120-42(44513)
क्षत्रधर्मस्य वेत्ता च बुद्धिसत्वगुणान्वितः ।
फल्गुनोऽपि तथेत्युक्त्वा व्यवसायं परंजयः ॥ 6-120-43(44514)
गृह्यानुमन्त्र्य गाण्डीवं शरान्सन्नतपर्वणः ।
अनुमान्य महात्मानं भरतानां महारथम् ॥ 6-120-44(44515)
त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः ।
अभिप्राये तु विदिते धर्मात्मा स्वयसाचिना ॥ 6-120-45(44516)
अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित् ।
उपधानेन दत्तेन प्रत्यनन्दद्धनञ्जयम् ॥ 6-120-46(44517)
प्राह सर्वान्समुद्वीक्ष्य भरतान्भारतं प्रति।
कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम् ॥ 6-120-47(44518)
शयनस्यानुरूपं मे पाण्डवोपहितं त्वया।
यद्यन्यथा प्रपद्येथाः शपेयं त्वामहं पुरा ॥ 6-120-48(44519)
एवमेव महाबाहो धर्मेषु परितिष्ठता।
स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै ॥ 6-120-49(44520)
एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः ।
राज्ञश्च राजपुत्रांश्च पाण्डवैरभिसंवृतान् ॥ 6-120-50(44521)
पश्यध्वमुपधानं मे पाणडवेनाभिसन्धितम् ।
शयेयमस्यां शय्यायां यावदावर्तनं रवेः ॥ 6-120-51(44522)
ये तदा धारयिष्यन्ति ते च प्रेक्ष्यन्ति मां नृपाः।
दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः ॥ 6-120-52(44523)
नूनं सप्ताश्वयुक्तेन रथेनोत्तमतेजसा ।
रक्ष्येऽहं वै मम प्राणान्सुहृदः सुप्रियानिव ॥ 6-120-53(44524)
परिखाः खन्यतामत्र ममावसदने नृपाः ।
उपासिष्ये विवस्वन्तमेवं शरशताचितः ।
उपारमध्वं संग्रामाद्वैरमुत्सृज्य पार्थिवाः ॥ 6-120-54(44525)
स़ञ्जय उवाच। 6-120-55x(4243)
उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः।
सर्वोपकरणैर्युक्ताः कुशलैः साधुशिक्षिताः ॥ 6-120-55(44526)
तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच तनयं तव ।
दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः ॥ 6-120-56(44527)
एवंगते मयेदानीं वैद्यैः कार्यमिहास्ति किम्।
क्षत्रधर्मे प्रशस्तां हि प्राप्तोऽस्मि परमां गतिम् ॥ 6-120-57(44528)
नैष धर्मो महीपालाः शरतल्पगतस्य मे ।
एभिरेव शरैश्चाहं दग्धव्योऽग्नौ नराधिपाः ॥ 6-120-58(44529)
तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव।
वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः ॥ 6-120-59(44530)
ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः ।
स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः ॥ 6-120-60(44531)
उपधानं ततो दत्त्वा पितुस्ते मनुजेश्वराः ।
सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः ॥ 6-120-61(44532)
उपगम्य महात्मानं शयानं शयने शुभे ॥ 6-120-62(44533)
तेऽभिवाद्य ततो भीष्मं कृत्वा च त्रिःप्रदक्षिणम्।
विधाय रक्षां भीष्मस्य सर्व एव समन्ततः ॥ 6-120-63(44534)
वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः ।
निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः ॥ 6-120-64(44535)
निविष्टान्पाण्डवांश्चैव प्रीयमाणान्महारथान् ।
भीष्मस्य पतनं दृष्ट्वा उपगम्य महाबलः ॥ 6-120-65(44536)
उवाच माधवः काले धर्मपुत्रं युधिष्ठिरम् ।
दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः ॥ 6-120-66(44537)
अवध्यो मानुषैरेव सत्यसन्धो महारथः ।
अथवा दैवतैः सार्धं सर्वशास्त्रस्य पारगः ॥ 6-120-67(44538)
त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुष । 6-120-68(44539)
सञ्जय उवाच।
एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम् ॥ 6-120-68x(4244)
तव प्रसादाद्विजयः क्रोधात्तव पराजयः ।
त्वं हि नः शरणं कृष्ण भक्तानामभयंकरः ॥ 6-120-69(44540)
अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव ।
रक्षिता समरे नित्यं नित्यं चापि हिते रतः ॥ 6-120-70(44541)
सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः। 6-120-71(44542)
सञ्जय उवाच।
एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः।
तवैवैतद्युक्तरूपं वचनं पार्थिवोत्तम ॥ ॥ 6-120-71x(4245)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसे विंशत्यधिकशततमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-120-11 पर्यवर्तन्त परिवृतवन्तः ॥ 6-120-17 व्रीडिताः व्रीडावन्तः । व्रीडा चान्यतः। ह्रीश्चाकार्यकरणात् ॥ 6-120-29 पारम्पर्येण क्रमेण॥ 6-120-34 उपधानं उपबर्हम् ॥ 6-120-38 इह वीरशय्यायाम् ॥ 6-120-43 व्यवसायमुचितोद्योगम् ॥ 6-120-45 अन्वगृह्णात् अवतष्टम्भे ॥ 6-120-48 उपहितं उपधानीयं दत्तम्॥ 6-120-53 विमोक्ष्येऽहं तदा प्राणान् इति झo पाठः ॥ 6-120-54 ममावसदने मन्निवासस्थाने ॥ 6-120-68 चक्षुषा हन्तीति तथा तम्। दृष्टिमात्रेण हननक्षमम् ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|